00:00
07:16
अद्यापि अस्या गीतस्य विषये जानकारी नास्ति।
अनंतसंसार समुद्रतार नौकायिताभ्यां गुरुभक्तिदाभ्याम्
वैराग्यसाम्राज्यदपूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्
♪
कवित्ववाराशिनिशाकराभ्यां दौर्भाग्यदावां बुदमालिकाभ्याम्
दूरिकृतानम्र विपत्ततिभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्
♪
नता ययोः श्रीपतितां समीयुः कदाचिदप्याशु दरिद्रवर्याः
मूकाश्र्च वाचस्पतितां हि ताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्
♪
नालीकनीकाश पदाहृताभ्यां नानाविमोहादि निवारिकाभ्याम्
नमज्जनाभीष्टततिप्रदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्
♪
नृपालि मौलिव्रजरत्नकांति सरिद्विराजत् झषकन्यकाभ्याम्
नृपत्वदाभ्यां नतलोकपंकते: नमो नमः श्रीगुरुपादुकाभ्याम्
♪
पापांधकारार्क परंपराभ्यां तापत्रयाहींद्र खगेश्र्वराभ्याम्
जाड्याब्धि संशोषण वाडवाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्
♪
शमादिषट्क प्रदवैभवाभ्यां समाधिदान व्रतदीक्षिताभ्याम्
रमाधवांध्रिस्थिरभक्तिदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्
♪
स्वार्चापराणाम् अखिलेष्टदाभ्यां स्वाहासहायाक्षधुरंधराभ्याम्
स्वांताच्छभावप्रदपूजनाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्
♪
कामादिसर्प व्रजगारुडाभ्यां विवेकवैराग्य निधिप्रदाभ्याम्
बोधप्रदाभ्यां दृतमोक्षदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्
बोधप्रदाभ्यां दृतमोक्षदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्
...नमो नमः श्रीगुरुपादुकाभ्याम्
...नमो नमः श्रीगुरुपादुकाभ्याम्