00:00
07:04
करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम्
वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि
श्री कृष्ण गोविन्द हरे मुरारे, हे नाथ नारायण वासुदेव
जिह्वे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति
गोविन्द दामोदर माधवेति
♪
विक्रेतु-कामा किल गोप-कन्या मुरारि-पादार्पित-चित्त-वृत्तिः
दध्यादिकं मोहवशात् अवोचत् गोविन्द दामोदर माधवेति
गृहे गृहे गोप-वधू-कदम्बाः सर्वे मिलित्वा समवाय-योगे
पुण्यानि नामानि पठन्ति नित्यं गोविन्द दामोदर माधवेति
गोविन्द दामोदर माधवेति
♪
सुखं शयाना निलये निजेऽपि नामानि विष्णोः प्रवदन्ति मर्त्याः
ते निश्चितं तन्मयतां व्रजन्ति गोविन्द दामोदर माधवेति
जिह्वे सदैवं भज सुन्दराणि नामानि कृष्णस्य मनोहराणि
समस्त-भक्तार्ति-विनाशनानि गोविन्द दामोदर माधवेति
गोविन्द दामोदर माधवेति
♪
सुखावसाने इदमेव सारं दुःखावसाने तु इदमेव गेयम्
देहावसाने इदमेव जाप्यं गोविन्द दामोदर माधवेति
जिह्वे रसज्ञे मधुर-प्रिया त्वं सत्यं हितं त्वां परमं वदामि
आवर्णयेथा मधुराक्षराणि गोविन्द दामोदर माधवेति
गोविन्द दामोदर माधवेति
♪
त्वामेव याचे मम देहि जिह्वे समागते दण्ड-धरे कृतान्ते
वक्तव्यमेवं मधुरं सुभक्त्या गोविन्द दामोदर माधवेति
श्री कृष्ण राधावर गोकुलेश गोपाल गोवर्धन-नाथ विष्णो