background cover of music playing
Shree Suktham - Seven

Shree Suktham

Seven

00:00

03:40

Similar recommendations

Lyric

ॐ ॥ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम्।

चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदोम आवह ॥ १॥

तां म आवह जातवेदोलक्ष्मीमनपगामिनीम्।

यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥ २॥

अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम्।

श्रियं देवीमुपह्वयेश्रीर्मादेवीर्जुषताम् ॥ ३॥

कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्।

पद्मेस्थितां पद्मवर्णां तामिहोपह्वयेश्रियम् ॥ ४॥

चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम्।

तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे॥ ५॥

आदित्यवर्णे तपसोऽधिजातोवनस्पतिस्तव वृक्षोऽथ बिल्वः ।

तस्य फलानि तपसा नुदन्तुमायान्तरायाश्च बाह्या अलक्ष्मीः ॥ ६॥

उपैतुमां देवसखः कीर्तिश्च मणिना सह ।

प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातुमे॥ ७॥

क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम्।

अभूतिमसमृद्धिं च सर्वां निर्णुद मेगृहात् ॥ ८॥

गंधद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्।

ईश्वरीꣳ सर्वभूतानां तामिहोपह्वयेश्रियम् ॥ ९॥

मनसः काममाकूतिं वाचः सत्यमशीमहि ।

पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥ १०॥

कर्दमेन प्रजाभूता मयि सम्भव कर्दम ।

श्रियं वासय मेकुलेमातरं पद्ममालिनीम् ॥ ११॥

आपः सृजन्तुस्निग्धानि चिक्लीत वस मेगृहे।

नि च देवीं मातरं श्रियं वासय मेकुले॥ १२॥

आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम्।

चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदोम आवह ॥ १३॥

आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम्।

सूर्यां हिरण्मयीं लक्ष्मीं जातवेदोम आवह ॥ १४॥

तां म आवह जातवेदोलक्ष्मीमनपगामिनीम्।

यस्यां हिरण्यं प्रभूतं गावोदास्योऽश्वान्विन्देयं पुरुषानहम् ॥ १५॥

यः शुचिः प्रयतोभूत्वा जुहुयादाज्य मन्वहम्।

श्रियः पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥ १६॥

फलश्रुति

पद्माननेपद्म ऊरू पद्माक्षी पद्मसम्भवे।

त्वं मां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम् ॥

अश्वदायी गोदायी धनदायी महाधने।

धनं मेजुषतां देवि सर्वकामांश्च देहि मे॥

पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवेरथम्।

प्रजानां भवसि माता आयुष्मन्तं करोतुमाम् ॥

धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः ।

धनमिन्द्रोबृहस्पतिर्वरुणं धनमश्नुते॥

वैनतेय सोमं पिब सोमं पिबतुवृत्रहा ।

सोमं धनस्य सोमिनोमह्यं ददातुसोमिनः ॥

न क्रोधोन च मात्सर्यं न लोभोनाशुभा मतिः ॥

भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्सदा ॥

वर्षन्तुतेविभावरि दिवोअभ्रस्य विद्युतः ।

रोहन्तुसर्वबीजान्यव ब्रह्म द्विषोजहि ॥

पद्मप्रियेपद्मिनि पद्महस्तेपद्मालयेपद्मदलायताक्षि ।

विश्वप्रियेविष्णुमनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥

या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी ।

गम्भीरा वर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया ।

लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगण खचितैस्स्नापिता हेमकुम्भैः ।

नित्यं सा पद्महस्ता मम वसतुगृहेसर्वमाङ्गल्ययुक्ता ॥

लक्ष्मीं क्षीरसमुद्र राजतनयां श्रीरंगधामेश्वरीम्।

दासीभूतसमस्त देव वनितां लोकैक दीपांकुराम्।

श्रीमन्मन्दकटाक्षलब्ध विभव ब्रह्मेन्द्रगङ्गाधरां ।

त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्देमुकुन्दप्रियाम् ॥

सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीस्सरस्वती ।

श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥

वरांकुशौपाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम्।

बालार्क कोटि प्रतिभां त्रिणेत्रां भजेहमाद्यां जगदीश्वरीं ताम् ॥

सर्वमङ्गलमाङ्गल्येशिवेसर्वार्थ साधिके ।

शरण्येत्र्यम्बके देवि नारायणि नमोऽस्तुते॥

सरसिजनिलयेसरोजहस्तेधवलतरांशुक गन्धमाल्यशोभे।

भगवति हरिवल्लभेमनोज्ञेत्रिभुवनभूतिकरिप्रसीद मह्यम् ॥

विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम्।

विष्णोः प्रियसखींम् देवीं नमाम्यच्युतवल्लभाम् ॥

महालक्ष्मी च विद्महेविष्णुपत्नी च धीमही ।

तन्नोलक्ष्मीः प्रचोदयात् ॥

(आनन्दः कर्दमः श्रीदश्चिक्लीत इति विश्रुताः ।

ऋषयः श्रियः पुत्राश्च श्रीर्देवीर्देवता मताः (स्वयम्

श्रीरेव देवता ॥) variation)

(चन्द्रभां लक्ष्मीमीशानाम् सुर्यभां श्रियमीश्वरीम्।

चन्द्र सूर्यग्नि सर्वाभाम् श्रीमहालक्ष्मीमुपास्महे॥ variation)

श्रीवर्चस्यमायुष्यमारोग्यमाविधात् पवमानं महीयते।

धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥

ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः ।

भयशोकमनस्तापा नश्यन्तुमम सर्वदा ॥

श्रियेजात श्रिय आनिर्याय श्रियं वयोजनितृभ्योदधातु।

श्रियं वसाना अमृतत्वमायन् भजंति सद्यः सविता विदध्यून् ॥

श्रिय एवैनं तच्छ्रियामादधाति । सन्ततमृचा वषट्कृत्यं

सन्धत्तं सन्धीयतेप्रजया पशुभिः । य एवं वेद ।

ॐ महादेव्यैच विद्महेविष्णुपत्नी च धीमहि ।

तन्नोलक्ष्मीः प्रचोदयात् ॥

॥ ॐ शान्तिः शान्तिः शान्तिः ॥

- It's already the end -