background cover of music playing
Damodar Ashtakam - Agam Aggarwal

Damodar Ashtakam

Agam Aggarwal

00:00

08:17

Similar recommendations

Lyric

नमामीश्वरं सच्-चिद्-आनन्द-रूपं

लसत्-कुण्डलं गोकुले भ्राजमनम्

नमामीश्वरं सच्-चिद्-आनन्द-रूपं

लसत्-कुण्डलं गोकुले भ्राजमनम्

यशोदा-भियोलूखलाद् धावमानं

परामृष्टम् अत्यन्ततो द्रुत्य गोप्या

यशोदा-भियोलूखलाद् धावमानं

परामृष्टम् अत्यन्ततो द्रुत्य गोप्या

रुदन्तं मुहुर् नेत्र-युग्मं मृजन्तम्

कराम्भोज-युग्मेन सातङ्क-नेत्रम्

रुदन्तं मुहुर् नेत्र-युग्मं मृजन्तम्

कराम्भोज-युग्मेन सातङ्क-नेत्रम्

मुहुः श्वास-कम्प-त्रिरेखाङ्क-कण्ठ

स्थित-ग्रैवं दामोदरं भक्ति-बद्धम्

मुहुः श्वास-कम्प-त्रिरेखाङ्क-कण्ठ

स्थित-ग्रैवं दामोदरं भक्ति-बद्धम्

इतीदृक् स्व-लीलाभिर् आनन्द-कुण्डे

स्व-घोषं निमज्जन्तम् आख्यापयन्तम्

इतीदृक् स्व-लीलाभिर् आनन्द-कुण्डे

स्व-घोषं निमज्जन्तम् आख्यापयन्तम्

तदीयेषित-ज्ञेषु भक्तैर् जितत्वं

पुनः प्रेमतस् तं शतावृत्ति वन्दे

तदीयेषित-ज्ञेषु भक्तैर् जितत्वं

पुनः प्रेमतस् तं शतावृत्ति वन्दे

वरं देव मोक्षं न मोक्षावधिं वा

न चन्यं वृणेऽहं वरेषाद् अपीह

वरं देव मोक्षं न मोक्षावधिं वा

न चन्यं वृणेऽहं वरेषाद् अपीह

इदं ते वपुर् नाथ गोपाल-बालं

सदा मे मनस्य् आविरास्तां किम् अन्यैः

इदं ते वपुर् नाथ गोपाल-बालं

सदा मे मनस्य् आविरास्तां किम् अन्यैः

इदं ते मुखाम्भोजम् अत्यन्त-नीलैर्

वृतं कुन्तलैः स्निग्ध-रक्तैश् च गोप्या

इदं ते मुखाम्भोजम् अत्यन्त-नीलैर्

वृतं कुन्तलैः स्निग्ध-रक्तैश् च गोप्या

मुहुश् चुम्बितं बिम्ब-रक्ताधरं मे

मनस्य् आविरास्ताम् अलं लक्ष-लाभैः

मुहुश् चुम्बितं बिम्ब-रक्ताधरं मे

मनस्य् आविरास्ताम् अलं लक्ष-लाभैः

नमो देव दामोदरानन्त विष्णो

प्रसीद प्रभो दुःख-जालाब्धि-मग्नम्

नमो देव दामोदरानन्त विष्णो

प्रसीद प्रभो दुःख-जालाब्धि-मग्नम्

कृपा-दृष्टि-वृष्ट्याति-दीनं बतानु

गृहाणेष माम् अज्ञम् एध्य् अक्षि-दृश्यः

कृपा-दृष्टि-वृष्ट्याति-दीनं बतानु

गृहाणेष माम् अज्ञम् एध्य् अक्षि-दृश्यः

कुवेरात्मजौ बद्ध-मूर्त्यैव यद्वत्

त्वया मोचितौ भक्ति-भाजौ कृतौ च

कुवेरात्मजौ बद्ध-मूर्त्यैव यद्वत्

त्वया मोचितौ भक्ति-भाजौ कृतौ च

तथा प्रेम-भक्तिं स्वकां मे प्रयच्छ

न मोक्षे ग्रहो मे स्थि दामोदरेह

तथा प्रेम-भक्तिं स्वकां मे प्रयच्छ

न मोक्षे ग्रहो मे स्थि दामोदरेह

नमस्तेस्तु दाम्ने स्फुरद्-दीप्ति-धाम्ने

त्वदीयोदरायाथ विश्वस्य धाम्ने

नमस्तेस्तु दाम्ने स्फुरद्-दीप्ति-धाम्ने

त्वदीयोदरायाथ विश्वस्य धाम्ने

नमो राधिकायै त्वदीय-प्रियायै

नमोऽनन्त-लीलाय देवाय तुभ्यम्

नमो राधिकायै त्वदीय-प्रियायै

नमोऽनन्त-लीलाय देवाय तुभ्यम्

नमो राधिकायै त्वदीय-प्रियायै

नमोऽनन्त-लीलाय देवाय तुभ्यम्

नमामीश्वरं सच्-चिद्-आनन्द-रूपं

लसत्-कुण्डलं गोकुले भ्राजमनम्

- It's already the end -